भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 411 to 420 of 1337 verses
(हस्तस्पर्शेन जरद्गव्यपि प्रस्‍नौति दोहदगुणेन।

अवलोकितप्रस्‍नवशीलां पुत्रक! दुःखैः प्राप्स्यसि॥)

१.१.३ (ख) मध्यकालालम्बनो मध्यः ; यथा—(शाकु. १.२०)

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः।

करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृती॥ ७९॥

१.१.३ (ग) चिरकालालम्बनश्‍चिरः ; स यथा—(कुसं. ५.६१)

न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रान्तरवीक्षितामिमाम्।

तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ ८०॥

१.१.४ (क) रागानुगुण्यान्मृदूपक्रमो मृदुः ; स यथा—(माघ. १०.१७)

मन्दमन्दविगलत्‍त्रपमीषच्‍चक्षुरुल्लसितपक्ष्म दधत्या।

Showing 411 to 420 of 1337 verses