(हस्तस्पर्शेन जरद्गव्यपि प्रस्नौति दोहदगुणेन।
अवलोकितप्रस्नवशीलां पुत्रक! दुःखैः प्राप्स्यसि॥)
१.१.३ (ख) मध्यकालालम्बनो मध्यः ; यथा—(शाकु. १.२०)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृती॥ ७९॥
१.१.३ (ग) चिरकालालम्बनश्चिरः ; स यथा—(कुसं. ५.६१)
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रान्तरवीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ ८०॥
१.१.४ (क) रागानुगुण्यान्मृदूपक्रमो मृदुः ; स यथा—(माघ. १०.१७)
मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्म दधत्या।