१.१.५ (ख) तद्विपरीतो विसदृशः ; यथा—(रामचरिते १२.७९)
परवत्यपरिच्छदे कपौ कृपणेऽस्मिन् मयि कोऽयमादरः ?।
मृगयस्व मृगेक्षणे! कमप्यनुरूपं विसदृङ् न शोभते॥ ८५॥
१.१.५ (ग) गुणानामेकस्य भूयस्त्वे परस्य च अल्पीयस्त्वे तत् असदृशः ;
इदमिह मदनस्य जैत्रमस्त्रं सहजविलासनिबन्धनं शरीरम्।
असदृशवरसम्प्रयोगशोच्यं विफलगुणातिशयं भविष्यतीति॥ ८६॥
१.१.६ (क) परस्परस्यानुरागादिसाम्ये सम्यक् ; यथा—(बा.रा. ५.१७)
समपेम्मरसं समरूपजौवणं समविलासवेअड्ढिं।