समसुहदुक्खं अ जणं समपुण्णो जइ जणो लहइ॥ ८७॥
(समप्रेमरसं समरूपयौवनं समविलासवैदग्ध्यम्।
समसुखदुःखं च जनं समपुण्यो यदि जनो लभते॥)
१.१.६ (ख) एकस्य प्रातिकूल्ये मिथ्या; यथा—(सेब. ११.२७)
अब्भत्थणं ण गेण्हइ तीरइ तिहुअणसिरीअ वि ण लोहेउं।
ण गणेइ सरीरभअं कह मण्णे होज्ज जाणई साणुणआ॥ ८८॥
(अभ्यर्थनां न गृह्णाति शक्यते त्रिभुवनश्रियाऽपि न लोभयितुम्।
न गणयति शरीरभयं कथं मन्ये भवेज्जानकी सानुनया॥)
१.१.६ (ग) एकस्यातिशयाधिक्ये अतिशायी ; यथा—
दिठ्ठा कुविआणुणआ पिआ सहस्सजणपेल्लणं पि विसहिअं।