१३. अविकत्थनत्वं यथा—(कुसं. ५.६४)
यथा श्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ ११२॥
१४. मानिता यथा—(कुसं. ५.६)
कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी।
अयाचतारण्यनिकेतमात्मनः फलोदयान्ताय तपस्समाधये॥ ११३॥
१५. कृतज्ञता यथा—(गास. ३.४६)
मामि! हिअअं व पीअं तेण जुआणेण मज्जमाणीए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअंतेण॥ ११४॥
(मातुलानि! हृदयमिव पीतं तेन यूना मज्जन्त्याः।