भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 565 verses
सेनानिवेशान् पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः।

भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः॥ १२०॥

३०. उत्तमस्येर्ष्या यथा—(अमरु. ८१)

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।

मुहुः कण्ठे लग्नस्तिरयति च बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे! न तु वयम्॥ १२१॥

मध्यमस्य यथा—(वेसं. २.११)

तद् भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा साऽस्मदवपुषि विनयव्युत्क्रमेऽप्येष रागः।

तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन् वितमसि कुले जन्म कौलीनमेतत्॥ १२२॥

३१. उत्तमस्योग्रता यथा—(विक्रमो. ५.१)

आत्मनो वधमाहर्ता क्वासौ विहगतस्करः।

Showing 441 to 450 of 565 verses