कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं, के मम धन्विनोऽन्ये?॥ ११३॥
मध्यमस्य यथा—(मामा. ५.३२)
धैर्यं निधेहि हृदये, हत एष पापः, किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसङ्गरविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ११४॥
२७. उत्तमस्य मदो यथा—(माघ. २.१६)
आघूर्णमन् मदिरास्वादमदपाटलितद्युती।
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ॥ ११५॥
मध्यमस्य यथा—(रघु. १९.४६)
यत् स भग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधुनिर्गमात् कृशश्चित्तयोनिरभवत् पुनर्नवः॥ ११६॥