असती प्रातिवेश्मिका दुर्गता च न खलु खण्डितं शीलम्॥)
७. शीलसम्पद् यथा—(गास. ३.२६)
दिअहं खुडुंकिआए सअलं/तीए काऊण गेहवावारं।
गरुए वि मंतुदुक्खे भरिमो पाअंतसुत्तस्स॥ १०६॥
(दिवसं रोषमूकायाः सकलं कृत्वा गेहव्यापारम्।
गुरुकेऽपि मन्तुदुःखे स्मरामः पादान्तसुप्तस्य॥)
८. प्रियंवदता यथा—(कुसं. १.४५)
स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना॥ १०७॥
९. चातुर्यं यथा—(पृ. ११३२)