मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः?।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ १००॥
तत्रानुदेवपरमाणुदलं विधातुरानन्दकारि यदभूदुपयोगि तस्याः।
यस्मान्न तादृशमसौ विहितश्रमोऽपि रूपं कदाचिदपरं घटयाञ्चकार॥ १०१॥
३. यौवनं यथा—(कुसं. १.३१)
असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साऽथ वयः प्रपेदे॥ १०२॥
४. सुवेषता यथा—(कुसं. ३.५३)
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।