भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 401 to 410 of 565 verses
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत्।

तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन॥ १०७॥

मध्यमस्य यथा—(शाकु. ६.१५)

स्विन्नाङ्गुलिविनिवेशो रेखोपान्तेषु दृश्‍यते मलिनः।

अश्रु च कपोलपतितं लक्ष्यमिदं वर्णिकोच्छ्‌वासात्॥ १०८॥

२४. उत्तमस्य श्रमो यथा—(रघु. ७.६६)

स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः।

ललाटबद्धश्रमवारिपूर्णां भीतां प्रियामेत्य वचो बभाषे॥ १०९॥

मध्यमस्य यथा—(रघु. ९.६८)

तस्य कर्कशविहारसम्भवंम स्वेदमाननविलग्नजालकम्।

Showing 401 to 410 of 565 verses