दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ १०४॥
२२. उत्तमस्याश्रु यथा—(सक. ५.२१२)
सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला— मन्योन्यार्पितचञ्चुलग्नकबलैः पारावतैर्दूयते।
इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीष्वस्तत्रपं रोदिति॥ १०५॥
१. त्रुट्यां द्वितीयतृतीयपादैकदेशो लुप्तः रा.। जोशेरे तु नास्त्यस्य गन्धोऽपि। कोष्ठकपूर्त्तयस्त्वस्मत्कृता।
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया— मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥ १०६॥
२३. उत्तमस्य स्वेदो यथा—(कुसं. ७.७७)