बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः॥ ९७॥
मध्यमस्य यथा—(मामा. ५.२६)
मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल— प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।
सुतनु विसृजोत्कम्पं सम्प्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः॥ ९८॥
१९. उत्तमस्य ग्लानिर्यथा—(पृ. ॰ १०१२)
प्रकृत्या रमणीयोऽपि क्षीयमाणः प्रतिक्षणम्/क्षपम्।
दुःखमावहति प्रातः शशीवापाण्डुरच्छविः॥ ९९॥
यदिन्दावानन्दं प्रणयिनि जने वा न भजने व्यनक्त्यन्तस्तापं तदयमतिवीरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डुमधुरं वपुः क्षामं क्षामं वहति, रमणीयश्च भवति॥ १००॥