१६. कलावैदग्ध्यं यथा—(रघु. १९.१४)
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयोऽहरन्मनः।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलङ्घयत्॥ ९१॥
१७. चतुरता यथा—(किराता. १.१०)
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ९२॥
१८. रूपसम्पद् यथा—(उराच. ६.२०)
अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्दैवीं वाचमदीदिशत्॥ ९३॥