स्थातुं नियोक्तुर्यदि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन॥ ८७॥
१३. देशकालावबोधो यथा—(किराता. २.४६)
अभियोग इमान् महीभुजो भवता तस्य कृतः कृतावधेः।
प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव॥ ८८॥
१४. इङ्गिताकारज्ञता यथा—(शाकु. १.२८)
वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यवहिता मयि भाषमाणे।
कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥ ८९॥
१५. दाक्ष्यं यथा—(रामच. १.४७)
आततायी स विज्ञातो जीवत्यार्येति च श्रुतम्।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः?॥ ९०॥