पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता।
चतुर्दिगावर्जितसम्भृतां यो मृत्पात्रशेषामकरोद् विभूतिम्॥ ८१॥
कृष्णागरुद्रुमतलेषु सुराङ्गनाभि— रामोदिगन्धमृगगन्धिषु गीतकीर्त्तिः।
शौरेर्वराहवपुषो जगतीकलत्रे प्राग्ज्योतिषाधिपतिरेष सुतः किलाभूत्॥ ८२॥
८. प्रभावो यथा—(रघु. २.१४)
शशाम वृष्टयाऽपि विना दवाग्निरासीद् विशेषा फलपुष्पवृद्धिः।
ऊनं न सत्त्वेष्वधिको बवाधे तस्मिन् वनं गोप्तरि गाहमाने॥ ८३॥
९. प्रज्ञा यथा—(बारा. ४.१५)