दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥ ७७॥
३. अभिजनो यथा—(तिलकमञ्जरी ३९)
वासिष्ठैः स्म कृतोद्भवो वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः।
अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति तस्यार्बुदे विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गूर्जराः॥ ७८॥
पितुरनन्तरमुत्तरकोसलान् समधिगम्य समाधिजितेन्द्रियः।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः॥ ७९॥
श्रियः पदं द्वारवतीति नाम्ना पुरी परीता लवणार्णवेन।
अस्त्यावृतेवामरराजधानी निस्त्रिंशनीलेन नभस्तलेन॥ ८०॥