उपदिशति समानं कर्म कृत्स्नं पिनाकी सममपि च यतन्ते कर्ममार्गे समेते।
तदपि भृगुकुलेन्दुः काममुत्कृष्यतेऽसौ ननु भवति विनीतं द्रव्यमेव क्रियाभिः॥ ८४॥
१०. शास्त्रज्ञानं यथा—(रघु. ३.३०)
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्त्रश्चतुरर्णवोपमाः।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः॥ ८५॥
११. अदीनवाक्यता यथा—(मवीच. ५.५१)
ख्याता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते? संयत्तो भव, सत्त्वमस्ति भवतः, सत्यं मनुष्यो भवान्।
शस्त्रैरव्यवधीयमानविजयाः प्रायो वयं तेषु चेद् ग्राहस्ते सुखमस्तु सन्ति गिरयो यैर्वानराः शस्त्रिणः॥ ८६॥
१२. वाग्ग्मित्वं यथा—(रघु. २.५६)
भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ।