स्वाङ्गनादिगोचरः प्रकाशः,
पराङ्गनादिविषयः प्रच्छन्नः,
प्रयोजननिरपेक्षोऽकृत्रिमः,
तद्विपरीतः प्रयत्ननिर्वर्त्यः कृत्रिमः।
तत्र — नित्यः विषय—आश्रय—आलम्बन—उद्दीपन—स्थान—संस्थान—रूप—स्वरूपाणां पृथक् त्रैविध्यात् चतुर्विंशतिधा।
१.१.१ तत्र अनुरागो यस्मिन्नुपजायते स विषयः।
१.१.२ यस्य जायते स आश्रयः।