दिट्ठे जं पुलइज्जसि थरहरसि पिअम्मि जं समासण्णे।
तुह संभासण—सेउल्लि—फंसणे किं वि लज्जिहिसि॥ ७५॥
(दृष्टे यत् पुलकायसे थरहरायसे प्रिये यत् समासन्ने।
तथा संभाषणस्वेदार्द्रीकृतस्पर्शे किमिव लज्जिष्यसे?॥)
अधीरमध्यमाया विप्रलम्भेऽनुभावसम्पद् यथा—(गास. ७४३वे.)
भिउडीए पुलोहस्सं णिब्भच्छिस्सं परम्मुही होस्सं।
जं भणह तं करिस्सं सहिओ! जइ तं ण पेच्छिस्सं॥ ७६॥
{भ्रुकुट्या प्रलोकयिष्ये निर्भर्त्स्ये पराङ्मुखी भविष्यामि।
यद् भणत तत् करिष्ये सख्यो यदि तं न प्रेक्षिष्ये॥}
तस्या एव सम्भोगे यथा—(गास. ५.६५)