भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 351 to 360 of 481 verses
इत्यादि (पृ. ११८१)

हेतुकर्ता यथा—(उराच. २.२६)

चिराद् वेगारम्भी विकृत इव तीव्रो विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः।

व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः पुरा/परावृत्तः शोको विकलयति मां नूतन इव॥ ८०॥

भावकर्ता यथा—

कुचद्वन्द्वे तस्मिन् द्विपकलश/कलभ—कुम्भस्थलतुलां दधानेऽस्मिन् कस्या युवतिषु न चित्तस्य रुजति।

तथोर्वोर्युग्मे वा द्रुतरुचिरचामीकररुचि विकर्षत्यूष्माणं कमिव न युवानं ज्वरयति?॥ ८१॥

कर्मकर्ता यथा—

तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।

उद्गाढा नवनीलनीरजदृशामत्यन्तमायामिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ८२॥

Showing 351 to 360 of 481 verses