भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 371 to 380 of 481 verses
भूतः द्विधा— परोक्षभूतो, भूतानद्यतन इति।

भविष्यन् त्रिधा— भविष्यन्, भूतभविष्यन्, भविष्यदद्यतन इति।

वर्तमानस्त्रिधा— वर्तमानो भूतसामीप्यो भविष्यत्सामीप्य इति।

अव्यक्तस्त्रिधा— अव्यक्तः, अतिपन्नः, सङ्कीर्ण इति। तेषु

लुङादिवाच्यो भूतो यथा— (उराच. २.२२)

एतत् पुनर्वनमहो! कथमद्य दृष्टं यस्मिन्नभूम चिरमेव वयं वसन्तः।

आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः॥ ८५॥

लिङादिवाच्यः परोक्षो यथा—(रघु. ८.४३)

विललाप स बाष्पगद्गदम्॥ ८६॥

(पृ. १०५४) इत्यादि

Showing 371 to 380 of 481 verses