णीसासुक्कंपपुलोइएहिँ जाणंति णच्चिउं धण्णा।
अम्हारिसीहिं दिट्ठे पिअम्मि अप्पा वि पम्मुसइ॥ ७९॥
(निःश्वासोत्कम्पप्रलोकितैर्जानन्ति नर्तितुं धन्याः।
अस्मादृशीनां/भिः दृष्टे प्रिये आत्माऽपि प्रमुष्यते॥)
उत्तमत्वमुग्धत्वानुरूपाणि रामणीयकानि। तत्रोत्तमत्वं मुग्धामध्याप्रगल्भासु, मुग्धत्वमुत्तमामध्याकनिष्ठासु रामणीयकहेतुरिति। तत्र—
मुग्धाया उत्तमत्वं सम्भोगे यथा—(सक. ५.३८५)
बालत्तणदुल्ललिआए अज्ज अणज्जं कअं णववहूए।
भाआमि घरे एआइणि ति णिंतो पई रुद्धो॥ ८०॥
(बालत्वदुर्ललितया अद्यानार्य कृतं नववध्वा।
बिभेमि गृहे एकाकिनीति निर्यन् पती रुद्धः॥)