१.१.४ उद्दीपनानुरागः— (क) मृदुः, (ख) मध्यः, (ग) चण्डः इति,
१.१.५ स्थानानुरागः— (क) सदृक्, (ख) विसदृशः, (ग) असदृक्षः/शः इति,
१.१.६ संस्थानानुरागः— (क) सम्यक्, (ख) मिथ्या, (ग) अतिशायी इति,
१.१.७ रूपानुरागः— (क) चारुः, (ख) अचारुः (ग) उभयात्मा इति,
१.१.८ स्वरूपानुरागः— (क) गभीरः, (ख)(अनु)उत्कटः, (ग) प्रकटः इति,
१.१.१ (क) उच्चजातौ य उपजायते स उच्चः ; यथा—
कअलीगब्भसरिच्छे ऊरू दट्ठूण हलिअसोण्हाए।
उल्लसइ णहरंजणं चंडि/डुलस्स१ सेओल्लिअकरस्स॥ ७२॥
(कदलीगर्भसदृक्षे ऊरू दृष्ट्वा हालिकस्नुषायाः।