उल्लसति नखरञ्जनं नापितस्य स्वेदार्द्रकरस्य॥)
१.१.१ (ख) निम्नजातौ निम्नः ; यथा—
गोलाणईण तूहे मोहं विअ कुरुकुराअमाणभट्टस्स।
सोद्ध/ज्झअ-धूआमुहपेच्छिरस्स ण समप्पए संज्झा॥ ७३॥
(गोदानद्यास्तीर्थे मोघमेव कुरुकुरायमाणभट्टस्य।
रजकदुहितृमुखप्रेक्षणशीलस्य न समाप्यते संध्या॥)
१.१.१ (ग) समजातौ समः ; यथा—
संकेअ-ऊसुअ-मणो गहवइ-धूआ-कडक्ख-सच्चविओ।
तंबं गअं ण वेअइ वीडारो/गोवालो अंबरं दुहइ॥ ७४॥
(संकेतोत्सुकमना गृहपतिदुहितृकटाक्षसत्यापितः।