विप्रलम्भे यथा—(गास. ९६७ वे.)
केलीगोत्तक्खलणे वरस्स डुंडुल्लइँ दिहिं देइ।
बहुवासअवासहरे बहुए वाहोल्लिआ दिट्ठी॥ ८१॥
(केलीगोत्रस्खलने वरस्य कम्पितां धृतिं ददा/धाति।
बहुवासकवासगृहे वध्वा बाष्पार्द्रिता दृष्टिः॥)
मध्याया उत्तमत्वं सम्भोगे यथा—
सुरआवसाणविलिओणआओ सेउल्लव—अण—कमलाओ।
अद्धच्छिपेच्छिरीओ पिआओ धण्णा पुलोअंति॥ ८२॥
(सुरतावसानवलितावनताः स्वेदार्द्रवदनकमलाः।
अर्धाक्षिप्रेक्षणशीलाः प्रियाः धन्याः प्रलोकयन्ति॥)