लङादिवाच्यो भूतानद्यतनो यथा—(उराच. ३.२५)
करकमलविशी/तीर्णैरम्बुनीवारशष्पै— स्तरुशकुनिकुरङ्गान् मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्नवोद्भेदयोग्यः॥ ८७॥
लृङ्गादिवाच्यो भविष्यन् यथा—
प्रत्यागमिष्यसि भविष्यति सङ्गमोऽपि सम्पत्स्यते च हृदयाभिमतोऽभिलाषः।
एषा गता न पुनरेष्यति जीवितेश ! विद्युद्विलासतरला नवयौवनश्रीः॥ ८८॥
'आशंसायां भूतवच्च' (३.३.१३२) इति भूतभविष्यन् यथा—(रुद्रट. ७.६०)
अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त हताः पथिकगोहिन्यः॥ ८९॥
लुङादिवाच्यो भविष्यदद्यतनो यथा—