तया केवलं प्रियतमे गत इति आयत्तलोचनं निःश्वसितम्॥)
तस्या एव सम्भोगे यथा—(कुसं. ६.१)
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ ७१॥
धीरमध्याया विप्रलम्भेऽनुभावसम्पद् यथा—(सक. ५.४९२).
धीरेण माणभंगो माणक्खलणेण गरुअधीरारंभे।
उल्ललइ तुलिज्जंते एकम्मि वि से थिरं ण लगइ हिअअं॥ ७२॥
(धैर्येण मानभङ्गो मानस्खलनेन गुरुकधैर्यारम्भः।
उल्ललति तोल्यमाने एकस्मिन्नप्यस्याः स्थिरं न लगति हृदयम्॥)
तस्या एव सम्भोगे यथा—(हवि.)