भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 351 to 360 of 565 verses
१५. उत्तमस्य हर्षो यथा—(रघु. ३.११)

सुरेन्द्रमात्राश्रित/यितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः।

तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः॥ ९१॥

मध्यमस्य यथा—(मामा. ६.८)

म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि।

आनन्दनानि हृदयैकरसायनानि दिष्टया मयाऽप्यधि/परिगतानि वचोऽमृतानि॥ ९२॥

१६. उत्तमस्य रोमाञ्चो यथा—(रघु. ७.२२)

अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी।

अस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन॥ ९३॥

मध्यमस्य यथा—(मामा. ३.७)

Showing 351 to 360 of 565 verses