परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ८७॥
मध्यमस्य यथा—(काव्याद. २.२६४)
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुराज्ञातमहो शीतानिलं वनम्॥ ८८॥
१४. उत्तमस्य धृतिः यथा—(रत्ना. ४.२०)
नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम्॥ ८९॥
मध्यमस्य यथा—(मामा. १.३९)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकं स एव महोत्सवः॥ ९०॥