भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 565 verses
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ८७॥

मध्यमस्य यथा—(काव्याद. २.२६४)

राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।

अवगच्छेयुराज्ञातमहो शीतानिलं वनम्॥ ८८॥

१४. उत्तमस्य धृतिः यथा—(रत्ना. ४.२०)

नीतो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।

देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम्॥ ८९॥

मध्यमस्य यथा—(मामा. १.३९)

जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।

मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकं स एव महोत्सवः॥ ९०॥

Showing 341 to 350 of 565 verses