आचचाम सतुषारशीतलो भिन्नपल्लवपुटो वनानिलः॥ ११०॥
२५. उत्तमस्य मूर्च्छा यथा—(उराच. ३.९)१
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥ १११॥
मध्यमस्य यथा—(मामा. ९.२१)
बन्धुता नयनकौमुदीमहो मालतीनयनमुग्धचन्द्रमाः।
सोऽयमद्य मकरन्दनन्दनो जीवलोकतिलकः प्रलीयते॥ ११२॥
१. अत्र राघवः—'आकरो मृग्यः; पूर्णः श्लोको न ज्ञायते' —इति। जोशेरः पुनर्न ह्येव स्पृशति पद्यमिदम्, तत एव च सैनी। राघवोऽपि मोहस्य स्थाने 'लोह'—पदं पठति HOS.।
२६. उत्तमस्य गर्वो यथा—(कुसं. ३.१०)
तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा।