२८. उत्तमस्यामर्षो यथा—(बारा. ९.४५)
यन्मूलतो दशशिरांसि भवन्ति यच्च च्छेदेषु तानि शतशोऽथ सहस्स्त्रशश्च।
तत् साधु राक्षसपते! कथमन्यथाऽयमुत्सृज्यतां जनकजाहरणापरुद्धः॥ ११७॥
मध्यमस्य यथा—(मामा. ५.३४)
कठोरास्थिग्रन्थिव्यतिकरगणात्कारमुखरः खरस्नायुच्छेदक्षणविहितवेगव्युपरमः ।
निरातङ्कः पङ्केष्विव पिशितखण्डेषु विलास— न्नसिर्गात्रं गात्रं सपदि लवशस्ते विकिरतु॥ ११८॥
२९. उत्तमस्यासूया यथा— (रघु. ४.६१)
यवनीमुखपद्मानां सेहे मधुमदं न सः।
बालातपमिवाब्जानामकालजलदोदयः॥ ११९॥