भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 468 verses
एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतः॥ १०८॥ इत्यादि।

१०. वाग्ग्मिता यथा—(कुसं. ५.७५)

उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम्।

अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम्॥ १०९॥

११. शास्त्रज्ञानं यथा—(कुसं. १.३०)

तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः।

स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥ ११०॥

१२. अदीनवाक्यता यथा—

कारागृहे त्वमुषितश्चिरमेव यस्य निर्वापितः स विनयेन सहस्त्रबाहुः।

तस्यापि रे! पुरभिदाऽखिलमस्त्रवेदमध्यापितस्य विजयी मम जीवनाथः॥ १११॥