स्नानहरिद्राकटुकमनुस्त्रोतो जलं पिबता॥)
१६. दृढभक्तित्वं यथा—(कुसं. ५.८२)
अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ ११५॥
य एते षोडश प्रोक्ता नायका नायिकाश्च याः।
तेषां ये चोत्तमत्वादिहेतोर्जात्यादयो गुणाः॥ ११६॥
युक्तस्तैरुत्तमस्तेषां पादहान्या तु मध्यमः।
अर्धहान्या कनिष्ठः स्यात् नायिकास्वप्ययं विधिः॥ ११७॥
उदात्ता गूढमाना स्याद् विरुद्धा मानशालिनी।
ललिता साध्यमानेह शान्ता निर्मानमानसा॥ ११८॥