भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 411 to 420 of 638 verses
पर्याप्‍तसप्‍तभुवनाभयदक्षिणानि पुण्यानि तातचरितानि च यो न वेद॥ १०८॥

कनिष्ठस्य यथा—(वेसं. २.२८)

दुश्शासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा व्यथितोरुभङ्गे।

तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा॥ १०९॥

१. ऐलबिलः कुबेरः।

१६. मध्यमस्योत्साहो यथा—(उराच. ६.१६)

आयुष्मतः किल लवस्य नरेन्द्रसैन्यैरायोधनं ननु किमात्थ सखे! तथेति।

अद्यास्तमेतु भुवनेष्वपि राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु॥ ११०॥

कनिष्ठस्य यथा—(बारा. ४.५८)

लूनक्षत्रियकण्ठकन्दलगलत्कीलालनिर्वापितः प्रत्युद‍्भूतशिखाकलापहुतभुग्झङ्कारिभिर्मार्गणैः ।

Showing 411 to 420 of 638 verses