१४. मध्यमस्य रोमाञ्चो यथा—(उराच. ५.१८)
एतस्मिन् मसृणितराजपट्टकान्ते मोक्तव्या कथमिव सायकाः शरीरे।
यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमास्ते॥ १०६॥
कनिष्ठस्य यथा—(सेब. १५.६६)
पुलअं जणेंति दहकंधरस्स राहवसरा सरीरम्मि अडंता।
जणअतणआपओहरप्फंसमहग्घा विअ करअलाअट्ठिअ विमुक्का॥ १०७॥
(पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे पतन्तः।
जनकतनयापयोधरस्पर्शमहार्घा इव करतलाकृष्टविमुक्ताः॥)
१५. मध्यमस्य हासो यथा—(उराच. ५.३३)
कोऽप्येष सम्प्रति नवः पुरुषावतारो वीरो न यस्य भगवान् भृगुनन्दनोऽपि।