आज्ञा शक्रशिखामणिप्रणयिनी, शास्त्राणि चक्षुर्नवं, भक्तिर्भूतपतौ पिनाकिनि, पदं लङ्केति दिव्या पुरी।
उत्पत्तिर्द्रुहिणान्वये च, तदहो नेदृग् वरो लभ्यते स्याच्चेदेष न रावणः, क्व नु पुनः सर्वत्र सर्वे गुणाः ?॥ ९२॥
१.१.८ (क) अप्रकाशो गभीरः ; यथा—(गास. ६.१०)
तुह दंसणसंजणिओ वहूएँ/इमीएँ लज्जालुईएँ अणुराओ।
दुग्गअमणोरहो विअ हिअए च्चिअ जाइ परिणामं॥ ९३॥
(तव दर्शनसंजनितोऽस्या लज्जालोरनुरागः।
दुर्गतमनोरथ इव हृदय एव याति परिणामम्॥)
१.१.८ (ख) नातिप्रकाशोऽनुत्कटः ; यथा—शाकु. २.११
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरितस्तया न विवृतो मदनो न च संवृतः॥ ९४॥