(कदा गतः प्रियः? अद्य, पुत्रि! अद्येति कति दिनानि भवन्ति?।
एकं; एतावन्मात्रं भणित्वा मोहं गता बाला॥)
मध्यमाया मुग्धत्वं सम्भोगे यथा—(द्र. १५.२८६)
मुद्धत्तणेण बहुआ णंते वक्खारआहि सहिसद्धे।
अणुमग्गपअंत्ता/अट्टा पिअअमेण हसिऊण पडिरुद्धा॥ ८८॥
(मुग्धत्वेन वधूः याति रतिगृहात् सखीसार्धे।
अनुमार्गप्रवृत्ता प्रियतमेन हसित्वा प्रतिरुद्धा॥)
विप्रलम्भे यथा—(गास. ५.५३)
सहि! साहसु सब्भावेण पुच्छिमो किं असेसमहिलाणँ।
वड्ढंति करत्थं/ट्ठिआ च्चिअ वलआ दइए पउत्थम्मि॥ ८९॥