भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 251 to 260 of 565 verses
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः॥ ६०॥

८. स्थिरानुरागत्वं दृढभक्तिता; यथा—(रघु. १४.८७)

सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रचिकृतिसखो यत् क्रतूनाजहार।

वृत्तान्तेन श्रवणविषयव्यापिना तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे॥ ६१॥

यथा वा—(कुसं. १.५३)

यदैव पूर्वं ज्वलने शरीरं सा दक्षरोषात् सुदती ससर्ज।

तदाप्रभृत्येव विमुक्तचन्द्रः/सङ्गः पतिः पशूनामपरिग्रहोऽभूत्॥ ६२॥

(धीरललितस्य भावाः)

१सोऽयमनयोर्विशेषगुणयोगस्वाभाविकयोर्निरतिशय आन्तरो नित्यश्र्चात्मनः संस्कारः, यत्प्रभावान्निरतिशया (रतिः) प्रीतिः।

१. उत्तमस्य (रतिः) प्रतीर्यथा— (उराच. १.३८)

Showing 251 to 260 of 565 verses