मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत्॥ ६३॥
उपनायिकासु उदात्ता यथा—(रत्ना. २.२०)
भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया, मुक्तश्च न प्रश्रयः॥६४॥
शर्मिष्ठाया समालोक्य पत्युस्तत् प्रेमगौरवम्।
देवयानी भृशं क्रुद्धा जगाम पितुरन्तिकम्॥ ६५॥
तो तस्स मअलंछणस्स करफंससमुग्गएण सेएण।