राजत्यनेन प्रतियोगिनमात्मानं वा रागः रूपलावण्यादिराश्रयधर्मो विषयधर्मो वा।
राज्यते = स्वेदरोमाञ्चवैवर्ण्यादिभिर्वर्णान्तरमापद्यते विषय आश्रयो वा येन स राग उच्यते।
उभयोर्वक्त्रवीक्षितादिभिश्चेष्टाविशेषः प्रमोदविशेषो राजते शोभतेऽनेन समानशीलगुणवयोविद्याव्यसनेष्विति रागः। उत्तमप्रार्थनीयतादिभिरनुरूपुप्रार्थनादिभिर्वा उभयगतो विशेषः।
राजते = दीप्यते समुद्यते परं प्रकर्षमापद्यते रतिरतेनेति रागः — उभयगत इङ्गिताकारादिविशेषः, कालयापननेपथ्यविलेपनादिरुद्दीपनविशेषो वा।
भावसाधनपक्षे तु रतिरेका एवंप्रकारा रागशब्देनाभिधीयते। तस्य च यदनुना सहार्थेन सह समासस्तदा स्त्रियाः पुरुषस्य च तुल्यकाल एव रत्युत्पत्तावुत्तमः। यथा— (रघु. ७.२२)
अभूद् वरः कण्टकितप्रकोष्ठः॥ ५०॥
यदा अनुरागशब्दस्य पश्चादर्थेन अनुना समासस्तदा पुंसः पश्चादुत्पत्तौ मध्यमः।
अद्यप्रभृत्यनवमङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।