प्रवृत्तिनिवृत्त्योर्विधायको विधिः। स चतुर्धा— उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः, अधिकारविधिश्चेति।
उत्पत्तिविनियोगाख्यप्रयोगाधिक्रियार्थकः।
एको विधिस्तत्परतो विभेदेन विभिद्यते॥ ४२॥
NOTES pg=1207! १. 'धर्मविकल्पत्वादत एव धर्माणाम्........तथप्य' इति रा. HOS। जोपाठस्त्वादृतः।
१. तत्राज्ञारूप—स्वरूपज्ञापनापर उत्पत्तिविधिः। यथा—(मामा. २.१०)
तत उदयगिरेरिवैक एषः स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः॥ ४३॥
२. शेषभावेन कर्मादीनां विनियोजनापरो विनियोगविधिः। यथा—(मामा. २.११)