सम्भवाभावयोरनुमानेऽन्तर्भावो न घटते, सामान्यादेरभावात्। तथाहि— निश्चयात्मकमनुमानम्, अनिश्चयात्मा सम्भवः; तथाप्यविनाभावेन गतार्थत्वमिति चेत् तन्न उत्पत्तिकाले तस्यापि निश्चयात्मकत्वात्। अभावस्तु नानुमानसादृश्यमपि स्पृशति।
तदुक्तम्— मयूरो वृक्षमारुह्य कृत्व दिगवलोकनम्।
हन्तृभावमभावेन ज्ञात्वा नृत्यति निर्भयः॥ ४१॥
स हन्द्रियव्यापारभावभावित्वेन प्रत्यक्ष इति चेत्, तत्र, प्रत्यक्षलक्षणस्यायोगात्। तथाहि। इन्द्रियार्थसन्निकर्षजं ज्ञानं प्रत्यक्षम्, इन्द्रियार्थश्च व्यापारभावाभावादौ न घटते। अथाघटं भूतलमित्यत्र विशेषणविशेष्यभावः सन्निकर्षो भविष्यति' यथोक्तम्—'संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति षोढा सन्निकर्षः। तेषु संयोगाद् द्रव्यग्रहणं; संयुक्तसमवायाद् गुणग्रहणं, संयुक्तसमवेतसमवायाद् गुणत्वग्रहणं; समवायाच्छब्दग्रहणं; समवेतसमवायात् शब्दत्वग्रहणं; विशेषणविशेष्यभावाद् अभावग्रहणमिति। यद्यपि धर्मविकल्पत्याग१ एव धर्माणाम्, तथाऽप्यनुत्पत्तिमान् विनाशी प्रागभावः, उत्पत्तिमानप्यविनाशी प्रध्वंसाभावः। ततश्च ययैव सामग्र्या भावभूतं भूतलमुपलभ्यते न तया तद्विशेषणमभाव इति। न चागृहीतविशेषणा विशेष्ये बुद्धिः प्रवर्तते इत्यतोऽभावग्राहकं प्रमाणान्तरमभ्युपगन्तव्यम्। स च प्रमाणसप्तकव्यापारातीत (विष) यग्राहकोऽभाव एवेति। तान्येतानि प्रत्यक्षानुमानोपमानार्थापत्तिसम्भवाभावसमाख्यानि दर्शनान्तरे षट् प्रमाणानि प्रतिपादितानि।
(२. श्रुत्यालम्बनानुरागः)
अथ श्रवणतः शब्दैतिह्यश्रुतानुमानादि प्रमाणषट्कं वक्ष्यामः।
तत्र शाब्दः शब्दविज्ञानादसन्निकृष्टेऽर्थे ज्ञानं शाब्दम्।
तद् द्विविधम् औपदेशिकं विधिश्च।
तत्र उपदेशः षोढा १. विधिवादः, २. अर्थवादः, ३. संज्ञावादः, ४. स्वरुपवादः, ५. मन्त्रवादः, ६. अनुवाद इति। तत्र—