एवं रज इव रजः। यथा रजो नाम गुणविशेषः प्रत्यात्ममनुषज्यते, एवं पृथ्वीपरागः यः सर्वत्रानुषङ्गी स एवमुच्यते।
राजतिः पुनरिह शोभावचनः समृद्धिवचनश्च॥
उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते।
मलीमसमुखी वर्तिः प्रदीपशिखयेव सा॥ ४८॥
येनेष्टं राजसूयेन सर्वभूमीश्वरश्च यः।
शास्ति यश्चाज्ञया राज्ञः स सम्राट् कथ्यते बुधैः॥ ४९॥
अस्माद् भावकरणयोरन्यत्र घञुत्पत्तिरिष्यते, रञ्जेस्तु भावकरणयोरेव घञि नलोपः; ततश्चायमर्थः सङ्गच्छते।
रज्यति अनुषज्यते विषयेष्वनेनेति रागः रूपलावण्यादिर्विषयधर्मः, प्रकृत्यादिराश्रयधर्मो वा।