मानानन्तरात् प्रवासानन्तरः; स यथा—(सक. ५.५४)
सहसा मा साहिज्जउ पिआगमो तीएँ विरहकिसिआए।
अच्चंतपहरिसेण वि जा अ मआ सा मअ च्चेअ॥ ४७॥
(सहसा मा कथ्यतां प्रियागमस्तस्या विरहकृशायाः।
अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव॥)
प्रवासानन्तरात् करुणानन्तरः; स यथा—(उराच. ३. ३९)
आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून्।
संस्पर्शः पुनरपि जीवयन्नकस्मादानन्दादपरविधं तनोति मोहम्॥ ४८॥
एवंविप्रलम्भेष्वपि करुणात् प्रवासो विचित्रः। स यथा—(मेघ. १००)
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं॥ ४९॥ इत्यादि।