यथाऽस्य मत्सरिण्या अपि दूत्यं जायया प्रतिपन्नम्॥)
एतेन अन्यतरानिच्छायामनुरागाभासेऽप्यानुरूप्यं व्याख्यातम्। तत्र पुरुषस्यानिच्छायाम् उत्तमः। यथा—(किराता. १०.५०)
तदनघ! तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः॥ ५६॥
स्त्रिया अनिच्छायां मध्यमः। यथा—(रघु. ६.६७)
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ ५७॥
स्त्रिया एवात्या/न्यानुरागतस्तद्द्वेषे कनिष्ठः। यथा—(उरा. ५.२१)
श्वासालिङ्गनधूसरेण सुमुखी बिम्बाधरेणामुना पर्यन्तारुणतां दृशोर्विदधतो(ती) बाष्पैरविच्छेदिभिः।
क्षामक्षामकपोलमण्डलपतद्व्यालोललम्बालकै— रङ्गैरुज्झितभूषणैः कथमियं धत्ते नवं मण्डनम्?॥ ५८॥