३. एवं पुराऽभूदिति पुराकल्पः। यथा—
(सक. ५.२७७) (पृ.१२६६) इत्यादि
४. व्याहतस्य प्रवादः ॰ ॰ ॰ परा / कृतिर्यथा—(कुसं. ५.६९)
अयुक्तरूपं किमतः परं भवेत् त्रिनेत्रवक्षस्सुलभं तवापि यत्।
स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति॥ ५१॥
स चायमर्थप्रकारोऽर्थवादः प्ररोचनया पुरुषमप्रवर्तमानं स्तुतिपुराकल्पाभ्यां प्रवर्तयति। रागतः प्रवृत्तं निन्दापरा/कृतिभ्यां निवर्तयति।