४. अविद्यमानव्युत्पत्तिर्यादृच्छिकी, यथा—(मवीच. १.२०)
लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तु द्वितीया जनकात्मजा॥ ५५॥
सा तु चतुर्विधापि विधिनिषेधार्थमर्थवादानुवादौ विधत्ते।
मिथो विवेकहेतुः स्वरूपविधिः। सोऽपि चतुर्धा—'जातिः, गुणः, क्रिया, द्रव्यमि'ति। तत्र—
१. सामान्याभिधायिनी जातिः; यथा—
रतेरिव निधानानि रत्नानामिव राशयः।
अमृतस्येव कुण्डानि योषितः केन निर्मिताः॥ ५६॥
२. आश्रितो / आश्रय विशेषणं च गुणः, यथा—(काव्याद. २.११)