बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ ५७॥
३. मनश्शरीरपरिस्पन्दः क्रिया, यथा—
शिञ्जानमञ्ञुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनःकान्ता नितान्तं योगिनामपि॥ ५८॥
४. विशेषाभिधायि द्रव्यं यथा—(शाकु. १.१८)
'सरसिजमनुविद्धं शैवलेनापि रम्यम्'॥ ५९॥
तच्चतुःप्रभेदमपि विध्यनुरोधेन हानोपादानबुद्धिमुपकल्पयति।