४. लोके विदिताः लौकिकाः। यथा—(विसा. १.३)
'गोनासाय नियोजितागदरजाः'॥ ६३॥
ते चतुर्विधा अपि कर्माणि प्रकाशयन्तो रक्षन्ति।
विधिविहितस्यानुवचनमनुवादः,
स विध्यर्थः, निषेधार्थः, स्तुत्यर्थः, निन्दार्थश्च।
अद्रव्यं हि विधत्ते, निषेधति, स्तौति, निन्दति वा; तत्र—
१. विध्यर्थो यथा—(रघु. ६.६५)
इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः।