सोऽयमुपदेशश्चतुर्विशतिविधोऽपि विधिरित्युच्यमानः—
साक्षाद्, विकल्पेन, समुच्चयेन विदधाति, नञा, नियमेन, परिसङ्ख्यया च निषेधति।
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति।
तत्र चान्यत्र च प्राप्तौ विकल्पो नियमे सति॥
समुच्चयोऽसमावेशे परिसङ्ख्याविकल्पयोः॥ ६८॥
साक्षाद् विधानं यथा—(रघु. ६.५७)
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु।