अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥ ६४॥
२. निषेधार्थो यथा—(कुसं. ५.६५)
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुर एव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न तु कर्तुमुत्सहे॥ ६५॥
३. स्तुत्यर्थो यथा—(कुसं. ५.७५)
'उवाच चैनं परमार्थतो हरं न वोत्सि'॥ ६६॥
४. निन्दार्थो यथा—(कुसं. ५.६६)
अवस्तुनिर्बन्धपरे! कथं नु ते करोऽयमानुक्तविवाहकौतुकः।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥ ६७॥